ipad/iphonetopBanner

कथा:

पातालदुर्गम् - 15

लेखक:: चन्दमामा | 20th Jun, 2011


 

मान्त्रिक: कालशम्बर: धूमकादीन् पर्वतशिखरं प्रति अनयत् | तत्र तै: सरोवरतीरे उप-विष्टा राजकुमारी कान्तिसेना दृष्टा | तस्या: रक्षणे निरत: कुम्भीर: मान्त्रिकादीनाम् उपस्थितिं ज्ञातवान् इव व्यवहरन् तेषां दिशि वेगेन प्रस्थितवान् | तदनन्तरम्....

कुम्भीरस्य आगमनं दृष्ट्वा अपायसम्भावनाम् ऊहितवान् धूमक: खडं हस्तेन गृहीत्वा - ‘‘मान्त्रिकवर्य ! कुम्भीरेण अस्माकं रहस्यं ज्ञातम् अस्ति इति भाति | अत: एव स: इत: एव आगच्छन् अस्ति | इदानीं तस्य संहार: एव वरं स्यात् इति भावयामि अहम्’’ इति अवदत्‌| तदा मान्त्रिक: अवदत् - ‘‘धूमक ! अलं त्वरया | कुम्भीर: तु अस्मत्पक्षीय: एव भविष्यति | यथा विभीषण: रामपक्षम् आश्रितवान् तथैव करिष्यति अयम् अपि | वंशद्रोहिण: सर्वस्मिन् अपि काले भवेयु: एव खलु ?’’ इति |

 कुम्भीर: वृक्षसमीपम् आगत्य शुष्कस्य कस्यचित् वृक्षखण्डस्य उपरि उपविश्य अवदत् - ‘‘शम्बर ! राक्षसानां कर्णौ विशालौ तीक्ष्णौ च | अत: तेषां श्रवणशक्ति: अतिप्रबला | भवान् विश्वासघातं कुर्यात् कदाचित् इति सन्देह: एषु दिनेषु मां बाधते | अहं महाकले: भ्राता तु न | अत: विभीषणतुल्यता कथं भवेत् मम ? अन्यच्च, आवयो: वंश: अपि न समान: | तस्य केतुवंश: | अहं तु राहु-वंशीय: | अत: वंशद्रोह: मया आचरित: न भवेत्’’ इति | मान्त्रिक: राक्षससमीपं गत्वा तस्य पार्श्वे व तिष्ठन् - ‘‘मित्र !


सम्बद्धकथाः

Customer Help Nos
BannerBanner