ipad/iphonetopBanner

कथा:

भल्लूकमान्त्रिक: 15

लेखक:: चन्दमामा | 18th Oct, 2011



[कालीवर्मा अनुचरै: सह दुर्गं प्रविष्टवान्‌ । मायामर्कट: कर्तितं किञ्चन शिर: दर्शितवान्‌ । कालीवर्मादय: अवगतवन्त: यत्‌ एतत्‌ शिर: राज्ञ: दुर्मुखस्य न इति । तत: ते सर्वे दुर्मुखस्य अन्वेषणाय उद्युक्ता: । अन्ते तै: सभास्थले सिंहासने उपविष्ट: दुर्मुख: दृष्ट: । वधकभल्लूक: गजात्‌ अवतीर्य परशुहस्त: सन्‌ वेगेन सभास्थलं प्रविष्टवान्‌ । तदनन्तरम्‌... ]

वधकभल्लूकस्य आगमनं दृष्ट्वैव कालीवर्मा अवगतवान्‌ यत्‌ कापि दुर्घटना इदानीं घटेत इति । अत: स: गजम्‌ आरूढवन्तं भिल्लतरुणम्‌ अवदत्‌ - ‘‘अये भिल्लतरुण ! राज्ञ: दुर्मुखस्य वधं कर्तुं प्रस्थितं वधकभल्लूकं तत: निवारयतु’’ इति ।  तत: स: वधकभल्लूकम्‌ उद्दिश्य उच्च-स्वरेण अवदत्‌ - ‘‘अये वधकभल्लूक ! अलं साहसेन । एषोऽहम्‌  आगच्छामि । राजानं मा मारयतु कृपया’’ इति । 

कालीवर्मण: आदेशं प्राप्य भिल्लयुवक: गजात्‌ अवतीर्य वेगेन पदानि स्थापयन्‌ गत्वा वधकभल्लूकस्य पुरत: स्थित्वा अवदत्‌ - ‘‘भल्लूकवर्य ! त्वरा मा क्रियताम्‌ । राज्ञ: दुर्मुखस्य शिर: न कर्तनीयम्‌ इति कालीवर्मण: आज्ञा अस्ति’’ इति ।  तदा वधकभल्लूक: क्रोधेन अवदत्‌ - ‘‘भल्लूकमान्त्रिक: माम्‌ आज्ञापितवान्‌ अस्ति यत्‌ एतस्य शिर: कर्तयित्वा आनेतव्यम्‌ इति ।


सम्बद्धकथाः

Customer Help Nos
BannerBanner