ipad/iphonetopBanner

कथा:

भयङ्कर: खात: 13

लेखक:: चन्दमामा | 18th Jul, 2011


 

 

केशव: जयमल्ल: वृद्ध: च यस्मिन्‌ दिने गुहात: प्रस्थितवन्त:, तस्मिन्‌ एव दिने ब्रह्मदण्डी मान्त्रिक: अङ्गरक्षकाभ्यां सह विन्ध्याचलदिशि गमनम्‌ आरब्धवान्‌ । अन्धकारे सन्निहिते केशवादय: कञ्चन ग्रामं प्राप्नुवन्‌ । तत्र तै: ज्ञातं यत्‌ ब्रह्मदण्डी अपि तमेव ग्रामम्‌ आगच्छन्‌ अस्ति इति । ते त्रय: अपि तत: धावितवन्त: । तदनन्तरम्‌ .....

के शवस्य पित्रा वृद्धेन मार्गदर्शनं कृतम्‌-     ‘‘इत: परं क्षणम्‌ अपि अत्र न स्थातव्यम्‌ अस्माभि: । यद्यपि अनेन वेषेण अस्मान्‌ न अभिजानीयात्‌ ब्रह्मदण्डी, तथापि तस्य सम्मुखीकरणं तु अवश्यं निवारणीयम्‌ । अनपेक्षित: अपाय: न उपतिष्ठेत्‌ । दौर्भाग्येण ब्रह्मदण्डिन:  आगमनमपि अत्रैव सम्भाव्यते । भवतु, चिन्ता मास्तु । वयम्‌ एव मार्गान्तरम्‌ आश्रयामहे । यावच्छीघ्रम्‌ एतस्मात्‌ ग्रामात्‌ निर्गत्य मार्गान्तरेण सूर्योदयात्‌ पूर्वम्‌ एव भयङ्कर: खात: प्राप्तव्य: अस्माभि:’’ इति ।

तत: ते त्रय: अपि त्वरितम्‌ एव ग्रामं क्रान्त्वा अरण्यं प्रविष्टवन्त: । तावता घनान्ध-कार: आवृत: आसीत्‌ । मार्ग: अपि स्पष्टतया न दृश्यते स्म । लता: गुल्मान्‌ च वारयन्त: ते अग्रे गतवन्त: । अरण्ये पक्षिणां कलरव:, जन्तूनां गर्जनचीत्कारादिकं च श्रूयते स्म । लघुपशव: गुल्मात्‌ गुल्मं प्रति धावन्ति स्म । अन्धकारे महान्त: वृक्षा: दैत्या: इव स्थित्वा भीतिम्‌ उत्पादयन्ति स्म । त्रय: अपि हताशा: सन्त: वृक्षस्य मूले उपविष्टवन्त: ।


सम्बद्धकथाः

Customer Help Nos
BannerBanner