ipad/iphonetopBanner

कथा:

गर्दभ: तु गर्दभ: एव

लेखक:: चन्दमामा | 5th Dec, 2011


जीवनसिंह: कश्र्चन सामान्य: वणिक्‌ ।   स: तदा तदा समीपस्थं नगरं गत्वा आपणाय आवश्यकानि वस्तूनि आनयति स्म । वस्तूनाम्‌ आनयनाय स: गर्दभस्य उपयोगं करोति स्म । कदाचित्‌ स: गर्दभेन सह नगरं गतवान्‌ । वाणिज्यार्थं स: नगरे बहुधा अटितवान्‌ । एतस्मात्‌ तेन महती श्रान्ति: अनुभूता । अत: कस्यचित्‌ महावृक्षस्य अध: स: शयनं कृतवान्‌ । अल्पे एव काले तेन निद्रा प्राप्ता ।

किञ्चित्कालानन्तरं तेन झटिति जागरणं प्राप्तम्‌ । बालानाम्‌ उच्चं ध्वनिम्‌ अश्र्ृणोत्‌ स: । तस्य श्रवणात्‌ स: अवगतवान्‌ यत्‌ कश्र्चन मतगुरु: (मुल्लाह्‌) गृहे छात्रान्‌ पाठयन्‌ अस्ति इति । बालानां कोलाहलं श्रुत्वा मतगुरु: अवदत्‌ - ‘‘अहं यत्‌ कण्ठशोषणं कुर्वन्‌ अस्मि तस्मात्‌ आनन्दम्‌ अनुभवन्ति भवन्त: । भवन्त: सर्वे गर्दभा: । भवत: सर्वान्‌ मानवान्‌ कर्तुं प्रयास: मम । किन्तु मम एतं प्रयासं सर्वथा न अवगच्छन्ति भवन्त:’’ इति ।

एतत्‌ श्रुत्वा बाला: सवेॅ मौनेन अतिष्ठन्‌ । एतस्मात्‌ जीवनसिंह: स्वस्य बाल्यं स्मृतवान्‌ । तेन बाल्ये अपि विद्यालयं प्रति न गतम्‌ एव । पितु: आपण: एव तस्य विद्यालय: । कथं वक्तव्यं, कथं व्यवहरणीयम्‌ इत्यादिकं तं बोधयन्‌ तस्य पिता गणनादिविषयान्‌ अपि  कांश्र्चित्‌ बोधितवान्‌ आसीत्‌ । एतस्मात्‌ यद्यत्‌ वाणिज्यनिर्वाहाय आवश्यकं तत्सर्वं प्राप्तवान्‌ आसीत्‌ स: । किन्तु गर्दभा: मानवरूपेण परिवर्तयितुं शक्या: इत्येतत्‌ तु तेन ऐदम्प्राथम्येन श्रुतम्‌ आसीत्‌ । तदीय: गर्दभ: तु भारवहनात्‌ ऋते अन्यत्‌ किमपि कार्यं कर्तुं न अर्हति स्म । भारवहनरूपाय कार्याय बुद्धिमत्ताया: कापि आवश्यकता न आसीत्‌ ।


सम्बद्धकथाः

Customer Help Nos
BannerBanner