प्राचीने काले राजा ब्रह्मदत्त: काशीनगर परिपालयति स्म । तेषु दिनेषु बोधिसत्त्व: कस्मिंश्र्चित् ग्रामे ब्राह्मणकुले जन्म प्राप्तवान् । तस्य नाम आसीत् सोमदत्त: इति । तस्य पिता नितरां निर्धन: आसीत् । अल्पे कृषिक्षेत्रे श्रमेण कार्यं कुर्वन् कथञ्चित् कुटुम्बजनान् पोषयति स्म स: । प्राप्तवयस्कतां गत: सोमदत्त: पितु: परि-श्रमपूर्णं जीवनं दृष्ट्वा नितरां खिन्न: जात: । स: मातापितरौ सुखिनौ कर्तुं कञ्चित् उपायं चिन्तितवान् ।
पिता तु यथापूर्वं वृषभयो: साहाय्येन कृषि-कार्यं निर्वहन् आसीत् । इत:परम् अपि विलम्ब: न करणीय: इति विचिन्त्य सोमदत्त: काशीं गतवान्, राज्ञ: आस्थाने कञ्चित् उद्योगं प्राप्तवान् च । कानिचन दिनानि अतीतानि । अत्रान्तरे सोमदत्तस्य पितु: कश्र्चन वृषभ: दिवं गत: । य: बहूनि वर्षाणि कृषिकार्ये साहाय्यं कृतवान् स: एव वृषभ: दिवं गत: इत्यत: सोमदत्तस्य पिता हस्तभङ्गं प्राप्तवान् इव । कृषिं विना तु जीवनम् असाध्यम् आसीत् । |
|
|