ipad/iphonetopBanner

कथा:

राजगुरो: मार्गदर्शनम

लेखक:: चन्दमामा | 27th Oct, 2009


 

वेतालस्य ग्रहणे बद्धकटि: त्रिविक्रम: पुनरपि वृक्षस्य समीपं गत्वा शाखायां लम्बमानं शवं स्कन्धे आरोप्य यथापूर्वं मौनेन श्मशानं प्रति प्रस्थितवान् | तदा शवान्तर्गत: वेताल: अवदत् - ‘‘अये राजन् ! मया बहुवारं ज्ञापितं यत् भवता अमूल्य: समय: व्यर्थी-क्रियमाण: अस्ति इति | स्वस्य कर्तव्यानि विस्मृत्य भवान् एतस्मिन् श्मशानप्रदेशे व्यर्थतया अटन् अस्ति | एवं करणीयम् इति किं कोऽपि राजगुरु: भवन्तम् आदिष्ट-वान् अस्ति ? राजान: मन्त्रिणां कथनम् अपि उपेक्ष्य कदाचित् राजगुरो: वचनं पुरस्कुर्वन्ति | राजगुरवश्च सम्यक अविचिन्त्य एव किमपि कार्यं कर्तव्यत्वेन विदधति | राज्ञ: विक्रमसेनस्य गुरु: अपि एवमेव व्यवहृतवान् आसीत् पूर्वम् | भवत: मार्गायासस्य परिहाराय तदीयां कथां विस्तरेण श्रावयामि | श्रद्धया शृणोतु तावत्’’ इति |


एतदनन्तरं वेताल: कथाम् आरब्धवान् -


‘‘विक्रमसेन: कस्यचित् देशस्य राजा | तस्य विषये जना: वदन्ति स्म यत् अस्माकं राजा धर्मात्मा, कर्तव्यनिष्ठ:, प्रजावत्सलश्च इति | किन्तु राजकुमारस्य शूरसेनस्य भावना अन्या एव आसीत् | मम पिता मां दत्तकपुत्रं मन्यते, मयि अल्पा अपि प्रीति: नास्ति तस्य इति भावयति स्म स: |


एतस्य कारणम् अपि किञ्चन आसीत् | राजकुमार: शूरसेन: सर्वशास्त्रपारङ्गत: यद्यपि आसीत् तथापि राजा प्रतिदिनम् अपि तदीये व्यवहारे कमपि दोषं प्रदर्शयन् भवति स्म |


सम्बद्धकथाः

BannerBanner