वेतालस्य ग्रहणे बद्धकटि: त्रिविक्रम: पुनरपि वृक्षस्य समीपं गत्वा शाखायां लम्बमानं शवं स्कन्धे आरोप्य यथापूर्वं मौनेन श्मशानं प्रति प्रस्थितवान् | तदा शवान्तर्गत: वेताल: अवदत् - ‘‘अये राजन् ! मया बहुवारं ज्ञापितं यत् भवता अमूल्य: समय: व्यर्थी-क्रियमाण: अस्ति इति | स्वस्य कर्तव्यानि विस्मृत्य भवान् एतस्मिन् श्मशानप्रदेशे व्यर्थतया अटन् अस्ति | एवं करणीयम् इति किं कोऽपि राजगुरु: भवन्तम् आदिष्ट-वान् अस्ति ? राजान: मन्त्रिणां कथनम् अपि उपेक्ष्य कदाचित् राजगुरो: वचनं पुरस्कुर्वन्ति | राजगुरवश्च सम्यक अविचिन्त्य एव किमपि कार्यं कर्तव्यत्वेन विदधति | राज्ञ: विक्रमसेनस्य गुरु: अपि एवमेव व्यवहृतवान् आसीत् पूर्वम् | भवत: मार्गायासस्य परिहाराय तदीयां कथां विस्तरेण श्रावयामि | श्रद्धया शृणोतु तावत्’’ इति |
|
|
|