ipad/iphonetopBanner

कथा:

विष्णुपुराणम्‌ - 19

लेखक:: चन्दमामा | 1st Aug, 2011


 

श्रीकृष्ण: अर्जुनस्य रथं युद्धभूमिं नीत्वा   द्वयो: सेनयो: मध्ये स्थापितवान्‌ । अर्जुन: सकृत्‌ शत्रुसेनाम्‌ अवलोकितवान्‌ । युद्धार्थं पितामहा:, गुरुजना:, पूज्या: आचार्या:, बान्धवा:, मित्राणि च सज्जीभूय उपस्थिता: सन्ति । एतान्‌ सर्वान्‌ दृष्टवत: अर्जुनस्य मन: शिथिलम्‌ अभवत्‌ । स: चिन्तितवान्‌ - ‘राज्यार्थं किम्‌ अहं प्रियजनानां वधं कुर्याम्‌ ? बान्धवानां रक्तै: लिप्तं राज्यं स्वीकृतं चेत्‌ निश्र्चयेन नरकप्राप्ति: भविष्यति । एतादृशं राज्यं मह्यं मास्तु । अहं राज्यार्थं कदापि युद्धं न करिष्यामि’ इति ।
एवं चिन्तयन्‌ स: रथे उपविष्टवान्‌ । तस्य हस्तत: धनुर्बाणादीनि पतितानि । तस्य मन: किङ्कर्तव्यतामूढतां गतम्‌ ।

अकाले आपतिताम्‌ अर्जुनस्य दुरवस्थां दृष्ट्वा  श्रीकृष्ण: हसन्‌ उक्तवान्‌ - "हे अर्जुन ! युद्धक्षेत्रे अविवेकेन शस्त्रत्याग:, क्षत्रिय-कुलोत्पन्नस्य भवत: न उचित: । देश-कालानुसारं स्वकर्तव्यपालनम्‌ एव युक्त: धर्म: । वस्तुत: परमेश्वर: एव अद्वितीय: जगत: कर्ता । मनुष्या: निमित्तमात्रभूता: । अधर्मान्यायादीनां दूरीकरणपूर्वकं धर्मन्याययो: स्थापने मनुष्य: भगवत: साधनमात्रम्‌ । लोके यदा दुष्टा: प्रबला: भवन्ति, यदा च सत्यस्य धर्मस्य च हानि: सम्भवति, तदा दुष्टानां नाशनार्थं धर्मसंस्थापनार्थं च नारायण: प्रत्येकस्मिन्‌ अपि युगे युगानुगुणम्‌ अवतारं करोति । भगवत: अवताररूपेण स्थितं मां स्मरतु । मां शरणं गच्छतु । मम आदेशम्‌ अनुसरतु । भवान्‌ श्रद्धया स्वस्य कर्तव्यम्‌ आचरतु । फलविषये मा चिन्तयतु । उत्तमेन क्षत्रियेण यत्‌ करणीयं तदेव करोतु भवान्‌ । गाण्डीवं धनु: गृहीत्वा पुनरपि युद्धार्थं सज्ज: भवतु" इति ।


सम्बद्धकथाः

Customer Help Nos
BannerBanner