ipad/iphonetopBanner

कथा:

विघ्नेश्वरः - 11

लेखक:: चन्दमामा | 22nd Nov, 2011


 

तत्रगतवती। मनोहरं नारायणरूपंदृष्ट्वा लक्ष्मीः अनुरागदृष्टयातम् अपश्यत्। नारायणरूपधारिणीपार्वती अपि लक्ष्म्याःपरमसुन्दरं रूपं दृष्ट्वाहृतहृदया जाता। तयोः दृष्ट्योःयोगात् सरोवरे एकं स्वर्णकमलम्उत्पन्नम्। कमलनालस्य अग्रेएका कलिका अपि आसीत्। लक्ष्मीःनारायणरूपिणीं पार्वतीम्दृढम् आलिङ्गितवती।

तदापार्वती उच्चैः हसन्ती उक्तवती– “अहं न नारायणः , अपितु पार्वती अस्मि” इति।

एतावत्उक्त्वा निजरूपेण स्थित्वासा पुनः उक्तवती – “पूर्वंविष्णुः मोहिनीरूपं प्राप्यशिवं मायाजाले पातितवान्आसीत्। तस्य प्रतीकाररूपेणमया अद्य एवं कृतम्” इति।

सुवर्णकमलस्यमध्ये एका सुन्दरीबालिका अपिआसीत्। तां दृष्ट्वा लक्ष्मीःपार्वती च आनन्दतुन्दिलेजाते। ते तां वात्सल्येनउन्नीतवत्यौ।

तदाविघ्नेश्वरः तत्र आगत्य अवदत्– “पार्वती जयस्वरूपिणी।लक्ष्मीः च सम्पत्स्वरूपिणी।उभयोः अंशेन जाता एषा ‘जयश्री’इति नाम प्राप्नोतु। एतस्याःभावी पतिः अपि शिवकेशवयोःअंशेन जातः अस्ति’’ इति।

एतावत्उक्त्वा सः वायुदेवम् आदिष्टवान्यत् कमलसहिताम् एतां बालिकांकावेरीनद्यां प्रवाह्य आगच्छतुइति। वायुदेवः तां बालिकांकावेर्यां प्रवाहितवान्।

एतांबालिकां नद्यां दृष्ट्वादक्षिणदेशस्य चक्रवर्ती महतासन्तोषेण स्वगृहं नीतवान्।



सम्बद्धकथाः

Customer Help Nos
BannerBanner