ipad/iphonetopBanner

कथा:

महाव्याधस्य महान्‌ गुण:

लेखक:: चन्दमामा | 9th Jan, 2012


महाव्याधस्य जिम्‌कार्बेटस्य नाम भवद्भि:  श्रुतपूर्वम्‌ एव स्यात्‌ । स: आसीत्‌ उत्तर-प्रदेशस्य कुमायन्‌जनानाम्‌ आत्मीयं मित्रम्‌ । तस्मिन्‌ प्रदेशे विद्यमानं प्रसिद्धं प्राणि-शास्त्रोद्यानम्‌ तस्य नाम्ना एव निर्दिश्यते इदानीम्‌ अपि । 

20 तमस्य शतकस्य आरम्भकाले भारते व्याघ्राणाम्‌ आखेटनं शिष्टजनै: आङ्‌ग्लै: च परमविनोदकरं मन्यते स्म । कार्बेट: आङग्लेय-व्याध: सन्‌ अपि कदापि मनोविनोदाय व्याघ्रं न अमारयत्‌ । स्वस्थाने विलसन्‌ व्याघ्र: तस्य दृष्ट्या - ‘अपरि-मितेन उत्साहेन युक्त: कश्र्चन विशाल-हृदयी सुसंस्कृत:’ आसीत्‌ । मानवखादिता सन्‌ स: ग्रामस्थानां परमपीडां यदि कुर्यात्‌ तर्हि एव कार्बेट: तस्य हनने उद्युक्त: भवति  स्म । अत्यन्तं सहनया दृढाग्रहेण च स: एतत्‌ कार्यं साधित-वान्‌ । 


1930 तमे वर्षे कलागारशिखरप्रदेशस्य ग्रामपरिसरे काचित्‌ व्याघ्री जनपीडिका जाता । ग्रामजना: चिन्तितवन्त: यत्‌ ‘कार्बेट्‌साहेब:’ (एतन्नाम्ना जना: तं निर्दिशन्ति स्म) एव अस्मान्‌ विपत्तित: रक्षेत्‌ इदानीम्‌ इति । एतत्‌ दुष्करं कार्यम्‌ अङ्गीकृतवान्‌ कार्बेट: व्याघ्रीं हन्तुम्‌ उद्युक्त: जात: । तावता तया व्याघ्य्रा 64 जना: मारिता: आसन्‌ इति वदति कश्र्चन सर्वकारीय: लेख: । इत: द्विगुणिता: जना: मारिता: स्यु: तया इति स्थानीयानां कथनम्‌ । एतस्मिन्‌ प्रयत्ने बहुवारं लघुव्याजै: हननावकाशात्‌ वञ्चित: जात: कार्बेट: । कदाचित्‌ व्याघ्य्रा: अन्वेषणे स: यदा मग्न: आसीत्‌ तदा अकस्मात्‌ इव हस्तलभ्याया: महाशिलाया: उपरि स्थिता सा व्याघ्री तेन दृष्टा । व्याघ्री तम एव पश्यन्ती आसीत्‌ ‘कथञ्चित्‌ अपि एष: इत: पलायितुं नैव शक्नोति’ इति भावेन । अपेक्षित: आहार: तस्या: परिधौ स्वयम्‌ एव उपस्थित: आसीत्‌ इव ।


Customer Help Nos
BannerBanner