ipad/iphonetopBanner

कथा:

दासवंशीया: शासकत्वेन

लेखक:: चन्दमामा | 5th Dec, 2011


दासवंशीया: शासकत्वेन
क्रवर्तिन:  कलीफ-सुल्तान-नवाबपदवाच्या:  च  देशस्य   राज्यस्य वा शासनं कृतवन्त: इति तु सर्वे जानन्ति एव । दासवंशेन अपि एष: देश: कदाचित्‌ शासित: जात: इति किं भवन्त: जानन्ति ? दासवंशशासनस्य आरम्भ: इत्थं जात: - 1192 तमे वर्षे अपघानिस्तानीय: महमदघोरि: पञ्चाब-राज्यम्‌ आक्रान्तवान्‌ । किन्तु स: अत्र स्थातुं न ऐच्छत्‌, प्रत्युत स्वदेशं प्रतिगन्तुम्‌ ऐच्छत्‌ । अत: स: दासवंशीयं स्वस्य विश्र्वासपात्रभूतं कुतबुदीन-अयबाकं शासकत्वेन अचिनोत्‌ । कुतबुदीन: देहलीजये विशेषपात्रम्‌ ऊढवान्‌ आसीत्‌ । कुतबुदीन: तद्वंशीया: च त्रिशताधिकवर्षाणि यावत्‌ शासनम्‌ अकुर्वन्‌ । स: वंश: एव ‘दासवंश:’ इति ख्यात: । अयं कुतबुदीन: एव स्वस्य विजयस्य सङ्केतरूपेण 77मीटरुन्नतं कुतबमिनारनामकं विजयस्तम्भं निर्मापितवान्‌ । 

रुद्राक्षा: कल्पयन्ति  प्रसिद्धिं शुभोदकर्र्ं च
रुद्राक्षस्य आध्यात्मिकम्‌ औषधीयं च महत्त्वम्‌ ऐदम्प्राथम्येन प्रपञ्चं ज्ञापितवन्त: संन्यासिन: विरागिण: वा । रुद्राक्षा: प्राय: रक्तधूसरवर्णोपेता: भवन्ति । धातुनिर्मितं तन्तुं रुद्राक्षाणां मध्ये योजयित्वा माला निर्मीयते । सा च माला कण्ठे ध्रियते प्राय: । या: रेखा: (मुखानि) भवन्ति तासाम्‌ आधारेण रुद्राक्षेषु वैविध्यं परिकल्प्यते । पञ्चमुख: रुद्राक्ष: प्राचुर्येण प्राप्यते । एकविंशतिमुख: अतिविरल: । एकमुख: रुद्राक्ष: शुभोदकर्र्ं प्रसिद्धिं च कल्पयति इति जना: भावयन्ति । चतुर्मुख: विद्याभ्यासनैपुण्यं कल्पयति इति वचनं श्रूयते । त्रिमुख: रुद्राक्ष: आरोग्यकारक: इत्यस्ति जनानां विश्र्वास: ।




Customer Help Nos
BannerBanner