ipad/iphonetopBanner

कथा:

अयोध्याकाण्ड: - ९

लेखक:: चन्दमामा | 7th Dec, 2010


 

अ  त्रान्तरे भरत: अनतिदूरे स्थितं रामस्य    कुटीरम् अपश्यत् | ‘मम मातॄ: आनयतु भवान्’ इति वसिष्ठम् उक्त्वा स: सुमन्त्र-लक्ष्मणाभ्यां सह अग्रे अगच्छत् | पर्णशाला समीपे एव अस्ति इत्येतम् अंशं  ज्ञापयन्ति स्म कानिचन चिह्नानि |


अचिरात् एव ते पर्णशालासमीपं गता: | पर्णशालाया: ईशान्यदिशि अग्निवेदिका आसीत् | तत्रैव तै: तपस्विवेषेण स्थित: राम: दृष्ट: | रामस्य पार्श्‍वे सीतालक्ष्मणौ स्थितौ आस्ताम् |


रामस्य दर्शनमात्रेण भरते दु:खम् उद्गतम् |  स: धावन् गत्वा रामस्य समीपे अतिष्ठत् |  तस्य नेत्राभ्याम् अश्रुधारा निर्गच्छति स्म | स: रामस्य पादमूले अपतत् | तस्य मुखात्  किमपि वचनं न निर्गतम् |


शत्रुघ्न: अपि रुदन् एव रामस्य चरणौ अस्पृशत् | राम: भरतं शत्रुघ्नं च महत्या प्रीत्या उत्थाप्य दृढतया आलिङ्ग्य अश्रूणि अस्रावयत् |


तत: स: भरतम् उद्दिश्य अनेकान् प्रश्र्ान् अपृच्छत् - ‘‘भ्रात: ! दीर्घकालानन्तरं भवत: दर्शनं जातम् | भवति महत् परिवर्तनं दृश्यते | झटिति मया भवान् न अभिज्ञात: एव | किमर्थं भवता एतत् अरण्यम् आगतम् ? अपि पिता कुशली ? मातर: कुशलिन्य: एव खलु ? राज्यं धर्मेण पाल्यमानं स्यात् एव | भवत: साहाय्यं कुर्वन्त: स्यु: खलु सर्वे मन्त्रिण: ? प्रजासु विरोध: क्वचिदपि न उत्पन्न: खलु ?’’ इति |


भरत: अवगतवान् यत् मम पट्टाभिषेक: समाप्त: इति एष: चिन्तयति इति | स: रामम् अवदत् - ‘‘अग्रज !


सम्बद्धकथाः

BannerBanner