ipad/iphonetopBanner

कथा:

भल्लूकमान्त्रिक:13

लेखक:: चन्दमामा | 19th Sep, 2011


एतत्‌ श्रुत्वा वधकभल्लूक: खेदेन अश्रूणि स्रावयन्‌ अवदत्‌ - ‘‘मम एतत्‌ विलक्षणं रूपं दृष्टवान्‌ राजा जितकेतु: मह्यं पुनरपि प्रधानवधकपदं दद्यात्‌ इत्यत्र मम न कोऽपि विश्र्वास:’’ इति ।

कालीवर्मा वधकभल्लूकस्य समीपं गत्वा तस्य स्कन्धे हस्तं संस्थाप्य अवदत्‌ - ‘‘मित्र ! अलं चिन्तया । भल्लूकमान्त्रिकस्य मन्त्रदण्ड: चोरित: अस्ति इति वार्तां ज्ञातवान्‌ जितकेतुमन्त्री जीवगुप्त: अस्माकं ग्रहणाय अत्र उपस्थित: अस्ति । भवान्‌ तं शरणं गच्छतु । स: भवते उद्योगं दद्यात्‌’’ इति ।  वधकभल्लूक: जीवगुप्तदिशि दृष्टिं प्रसार्य भीतियुक्तेन स्वरेण अवदत्‌ - ‘‘राजा उद्योगं दद्यात्‌ वा न वा इत्यत्र मम सन्देह: अस्ति । किन्तु जितकेतुविषये तु मम पूर्ण: विश्र्वास: अस्ति यत्‌ स: म शिरश्छेदम्‌ एव कारयिष्यति इति’’ इति ।

एतत्‌ श्रुत्वा भल्लूकमान्त्रिक: परशुं वधक-भल्लूकाय यच्छन्‌ - ‘‘वधकभल्लूक ! एष: परशु: भवत्समीपे एव भवतु । एतस्यापि काचित्‌ मन्त्रशक्ति: तु अस्ति एव खलु ? अत: आपत्काले एष: परशु: भवत: रक्षणं करिष्यति’’ इति उक्त्वा स्वस्य कटौ स्थितं खडं हस्तेन गृहीत्वा अवदत्‌ - ‘‘एष: खड: मायावानरेण अपहृत: मन्त्रदण्ड: इव न स्यात्‌ नाम, तथापि मद्रक्षणाय तु एष: पर्याप्त: एव’’ इति ।

‘‘आत्मरक्षणं मम मुख्यसमस्या न । मम उद्योगस्य का गति: भवेत्‌ ? एते नागमल्लादय: यथा यात्रिकाणां लुण्ठनं कुर्वन्ति तथा निन्द्यं कार्यम्‌ अहं तु कर्तुं न शक्नोमि’’ इति अवदत्‌ वधकभल्लूक: । एतत्‌ श्रुतवान्‌ नागमल्ल: महान्तं क्रोधं प्राप्य हस्तेन खडं गृहीत्वा इतस्तत: चालयन्‌ - ‘‘अये भल्लूकशिरस्क ! किं मां निन्द्यं भावयति भवान्‌ ? सैनिकानां जनानां च साहाय्येन किमपि कार्यं विशेषक्लेशं विना साधयतुं शक्येत । किन्तु घोरे अरण्ये प्रयाणिकानां लुण्ठनं करणीयं चेत्‌ धैर्यं साहसप्रवृत्ति: च भवेत्‌ एव । एषोऽहं मम एतं खडं पार्श्र्वे स्थापयामि । भवान्‌ अपि परशुं परित्यज्य मल्लयुद्धाय सन्नद्ध: भवतु । क: शूर: इति निर्णय: अत्रैव भवतु नाम’’ इति वदन्‌ मल्ल-युद्धाय सज्ज: जात: ।


सम्बद्धकथाः

BannerBanner